मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् १०

संहिता

यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।
जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥

पदपाठः

यः । त्वा॒ । हृ॒दा । की॒रिणा॑ । मन्य॑मानः । अम॑र्त्यम् । मर्त्यः॑ । जोह॑वीमि ।
जात॑ऽवेदः । यशः॑ । अ॒स्मासु॑ । धे॒हि॒ । प्र॒ऽजाभिः॑ । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वम् । अ॒श्या॒म् ॥

सायणभाष्यम्

पुत्रकामेष्ट्यां यस्त्वेत्येषा प्रधानस्य याज्या । सूत्रितं च । यस्वा हृदा कीरिणा मन्यमानोऽग्निस्तुविश्रवस्तमम् । आ. २-१० । इति ॥

यो मर्त्यो मरणधर्माहममर्त्यमनाशं त्वा त्वां कीरिणा स्तुत्यादिषु विक्षिप्तेन हृदा हृदयेन युक्तो मन्यमानः स्तुवन् जोहवीमि । अत्यर्थमाह्वयामि । यद्वा । स्तोतृवाचकेन कीरिणाशब्देन स्तुतिरुपलक्श्यते । स्तुतियुक्तेन मनसा त्वां मन्यमानो जोहवीमि । हे जातवेदो यशो धनं प्रजां वास्मासु धेहि । प्रजाभिस्त्वद्धत्ताभिर्हे अग्नेऽहममृतत्वं सन्तत्यविच्छेदलक्शनमश्याम् । प्राप्नुयाम् । प्रजामनु प्रजायसे तदु ते मर्त्यामृतम् । तै. ब्रा. १-५-५-६ । इति हि श्रुतिः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९