मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् ११

संहिता

यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् ।
अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तं र॒यिं न॑शते स्व॒स्ति ॥

पदपाठः

यस्मै॑ । त्वम् । सु॒ऽकृते॑ । जा॒त॒ऽवे॒दः॒ । ऊं॒ इति॑ । लो॒कम् । अ॒ग्ने॒ । कृ॒णवः॑ । स्यो॒नम् ।
अ॒श्विन॑म् । सः । पु॒त्रिण॑म् । वी॒रऽव॑न्तम् । गोऽम॑न्तम् । र॒यिम् । न॒श॒ते॒ । स्व॒स्ति ॥

सायणभाष्यम्

तस्यामेव पुत्रकामेष्ट्यां यस्मै त्वमित्येषाग्नेः पुत्रवतोऽनुवाक्या । यस्मै त्वं सुकृते जातवेदो यस्त्वा हृदा कीरिणा मन्यमानः । आ. २-१० । इति हि सूत्रितं ॥

हे जातवेदोऽग्ने त्वं यस्मै सुकृते सुकर्मणे यजमानाय । उ इति पूरणः । लोकं स्योनं सुखंकरं कृणवः । अकरोः । यद्वा । लोकमालोकेन स्योनं क्रुणवः । अनुग्रहेण कुर्वित्यर्थः । स यजमानोऽश्विनं बह्वश्वोपेतं पुत्रिणं बहुपुत्रोपेतं वीरवन्तं वीरैर्वीर्येण वोपेतं गोमन्तं रयिं धनं नशते । प्राप्नोति । स्वस्त्यविनश्वरं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९