मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् १

संहिता

सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन ।
अ॒ग्नये॑ जा॒तवे॑दसे ॥

पदपाठः

सुऽस॑मिद्धाय । शो॒चिषे॑ । घृ॒तम् । ती॒व्रम् । जु॒हो॒त॒न॒ ।
अ॒ग्नये॑ । जा॒तऽवे॑दसे ॥

सायणभाष्यम्

सुसमिद्धायेत्येकादशर्चं पञ्चमं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं गायत्रमिध्माद्युक्तदेवताकम् । आप्रमित्युक्तत्वात्तनूनपाद्वर्जितम् । अनुक्र. म. १. सू . १३ । सुसमिद्धायाप्रं गायत्रमित्यनुक्रमणिका । अत्रीणामिदमाप्रीसूक्तम् । समिद्धो आद्येति सर्वेषां यथर्षि वा । आ. ३-२ ॥ इत्युक्तत्वात् ॥

सुसमिद्धाय सुष्ठु समिद्धायैतन्नामकायाग्नेये शोचिषे दीप्तिमते घृतमाज्यं तीव्रं प्रभूतं जुहोतन हे ऋत्विज अग्नयेऽङ्गनादिगुणयुक्ताय जातवेदसे जातधनाय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०