मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् २

संहिता

नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा॑भ्यः ।
क॒विर्हि मधु॑हस्त्यः ॥

पदपाठः

नरा॒शंसः॑ । सु॒सू॒द॒ति॒ । इ॒मम् । य॒ज्ञम् । अदा॑भ्यः ।
क॒विः । हि । मधु॑ऽहस्त्यः ॥

सायणभाष्यम्

नाराशंसः सरैः शंसनीयोऽयमग्निरिमं यज्ञमिदं हविर्वा सुषुदति । सुष्ठु प्रेरयति । स देवोऽदाभ्योऽहिंस्यः केनापि कविर्मेधावी मधुहस्त्यो मधुरहस्त्यः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०