मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् ३

संहिता

ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् ।
सु॒खै रथे॑भिरू॒तये॑ ॥

पदपाठः

ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र॑म् । चि॒त्रम् । इ॒ह । प्रि॒यम् ।
सु॒ऽखैः । रथे॑भिः । ऊ॒तये॑ ॥

सायणभाष्यम्

हे अग्ने ईळितः सन्ना वहेन्द्रं चित्रं चायनीयं प्रियमिहास्मिन्यज्ञे सुखै रथेभी रथैरूतयेऽस्मद्रक्षणाय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०