मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् ४

संहिता

ऊर्ण॑म्रदा॒ वि प्र॑थस्वा॒भ्य१॒॑र्का अ॑नूषत ।
भवा॑ नः शुभ्र सा॒तये॑ ॥

पदपाठः

ऊर्ण॑ऽम्रदाः । वि । प्र॒थ॒स्व॒ । अ॒भि । अ॒र्काः । अ॒नू॒ष॒त॒ ।
भव॑ । नः॒ । शु॒भ्र॒ । सा॒तये॑ ॥

सायणभाष्यम्

हे ऊर्णम्रदा उर्णाकंबलवत मृदु हे बर्हिर्वि प्रथस्व । प्रथय । अर्काः स्तोतारोऽभ्यनूशत । स्तुवन्ति । हे शुभ्र दीप्त सातये धनाय तद्दानाय वा नोऽस्माकं भव ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०