मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् ५

संहिता

देवी॑र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये॑ ।
प्रप्र॑ य॒ज्ञं पृ॑णीतन ॥

पदपाठः

देवीः॑ । द्वा॒रः॒ । वि । श्र॒य॒ध्व॒म् । सु॒प्र॒ऽअ॒य॒नाः । नः॒ । ऊ॒तये॑ ।
प्रऽप्र॑ । य॒ज्ञम् । पृ॒णी॒त॒न॒ ॥

सायणभाष्यम्

हे द्वारो यज्ञस्य द्वाराभिमान्यो हे देवीर्देव्यो वि श्रयध्वम् । वियुक्ता भवतः । सुप्रायणाः शोभनगमनसाधना नोऽस्माकमूतये रक्षायै यज्ञं यजमानं प्र प्र पृणितन । पूरयत कामैर्यज्ञमेव वा फलैः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०