मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् ६

संहिता

सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
दो॒षामु॒षास॑मीमहे ॥

पदपाठः

सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के । व॒यः॒ऽवृधा॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।
दो॒षाम् । उ॒षस॑म् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे अह्नो रात्रेश्चाभिमानिदेव्यौ सुप्रीतीके सुरूपे शोभनाङ्गे वा वयोवृधान्नस्य वर्धयित्र्यौ यह्वी महत्यावृतस्य यज्ञस्योदकस्य वा मातरा निर्मात्र्यौ तयोर्मध्ये प्रत्येकं दोषां रात्रिदेवीमुषसमहर्देवीमीमहे । स्तुमः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१