मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् ७

संहिता

वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः ।
इ॒मं नो॑ य॒ज्ञमा ग॑तम् ॥

पदपाठः

वात॑स्य । पत्म॑न् । ई॒ळि॒ता । दैव्या॑ । होता॑रा । मनु॑षः ।
इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒त॒म् ॥

सायणभाष्यम्

वातस्य पत्मन् । लुप्तोपमैषा । वायुगमनसदृशगमनार्थमीळितास्माभिः स्तुतौ । यद्वा । वातस्य पतनसाधनेऽन्तरिक्षे गच्छन्तौ दैव्या देवादग्नेरादित्याच्च समुद्भूतौ होतारा देवानामाह्वातारौ युवां मनुषो मनुष्यस्येमं नोऽस्माकं यज्ञमा गतम् । आगच्छतम् । नो मनुशो यज्ञमिति व्यधिकरणे षष्ठ्यौ । अस्माकं यजमानस्य यज्ञमित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१