मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् ८

संहिता

इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ ।
ब॒र्हिः सी॑दन्त्व॒स्रिधः॑ ॥

पदपाठः

इळा॑ । सर॑स्वती । म॒ही । ति॒स्रः । दे॒वीः । म॒यः॒ऽभुवः॑ ।
ब॒र्हिः । सी॒द॒न्तु॒ । अ॒स्रिधः॑ ॥

सायणभाष्यम्

इळा पृथिवी सरस्वती । सर उदकम् । तस्मात्सरस्वान्वायुः । तस्य स्त्री सरस्वती । मही महती भारती भरतस्यादित्यस्य पत्नी । अत्र यद्यप्येशा नोक्ता तथापि सर्वत्र सहदृष्टत्वात्त्रिसङ्ख्याश्रवणाच्च सा गृह्यते । अथवैताः क्षित्यन्तरिक्षद्युस्थाना वाग्देव्यः । एता मयोभुवः सुखस्य भावियित्र्योऽस्रिधोऽहिंसिकाः सत्यो बर्हिर्बर्हिषि सीदन्तु । उपविशन्तु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१