मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् ९

संहिता

शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ ।
य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥

पदपाठः

शि॒वः । त्व॒ष्टः॒ । इ॒ह । आ । ग॒हि॒ । वि॒ऽभुः । पोषे॑ । उ॒त । त्मना॑ ।
य॒ज्ञेऽय॑ज्ञे । नः॒ । उत् । अ॒व॒ ॥

सायणभाष्यम्

हे त्वष्टर्देव शिवः सुखकरः सन्निहा गहि । अस्मद्यज्ञमागच्छ । विभिर्व्याप्तस्त्वं पोषे पॊषकरने । उतागत्य च त्मनात्मना स्वयमेव यज्ञे यज्ञे सर्वेषु यज्ञेषु नोऽस्मानुदव । उत्कृष्टं रक्ष ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१