मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् १०

संहिता

यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गामय ॥

पदपाठः

यत्र॑ । वेत्थ॑ । व॒न॒स्प॒ते॒ । दे॒वाना॑म् । गुह्या॑ । नामा॑नि ।
तत्र॑ । ह॒व्यानि॑ । ग॒म॒य॒ ॥

सायणभाष्यम्

अग्निहोत्र उत्तराहुतिस्कन्दने यत्र वेत्थेत्यनया समिधमादध्यात् । सूत्रितं च । यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्याः स्कन्दने । आ. ३-१० ॥ इति ॥

हे वनस्पते यूपाभिमानिदेव यत्र यस्मिन् स्थाने वेत्थ देवानाम् गुह्या गुह्यानि नामानि नामकानि रूपाणि तत्र हव्यानि गमय । प्रापय ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१