मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५, ऋक् ११

संहिता

स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा॑य म॒रुद्भ्य॑ः ।
स्वाहा॑ दे॒वेभ्यो॑ ह॒विः ॥

पदपाठः

स्वाहा॑ । अ॒ग्नये॑ । वरु॑णाय । स्वाहा॑ । इन्द्रा॑य । म॒रुत्ऽभ्यः॑ ।
स्वाहा॑ । दे॒वेभ्यः॑ । ह॒विः ॥

सायणभाष्यम्

अग्न्यादि विश्वे देवाः । तेभ्यो देवेभ्युअ इदं हविः स्वाहा करोमीते शेशः । स्वाहुतं करोमीत्यर्थः । एवं स्वाहाकृतेः स्तुतिः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१