मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् ३

संहिता

अ॒ग्निर्हि वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्षणिः ।
अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या॑ति॒ वार्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

अ॒ग्निः । हि । वा॒जिन॑म् । वि॒शे । ददा॑ति । वि॒श्वऽच॑र्षणिः ।
अ॒ग्निः । रा॒ये । सु॒ऽआ॒भुव॑म् । सः । प्री॒तः । या॒ति॒ । वार्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

अग्निर्ह्ययमग्निः खलु विशे यजमानाय वाजिनमन्नवन्तं पुत्रमश्वमन्नं वा ददाति । विश्वचर्षणिः । विश्वे चर्षनयो मनुष्या रक्षणीया अर्चका वा यस्य स तथोक्तः । यद्वा । पश्यतिकर्मैतत् । सर्वस्य द्रष्टाग्नी राये धनार्थिने । अथवा द्वितीयार्थे चतुर्थी । धनं स्वाभुवं सुष्ठु सर्वत्र व्याप्तं वार्यम् सर्वैर्वरणीयं प्रीतः सन् याति । यमयति । दातुं वा गच्छति । इषमित्यादिगतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२