मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् ४

संहिता

आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म् ।
यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

आ । ते॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । अ॒जर॑म् ।
यत् । ह॒ । स्या । ते॒ । पनी॑यसी । स॒म्ऽइत् । दी॒दय॑ति । द्यवि॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोत्रियतृचस्या ते अग्ने इधीमहीत्यादिके प्रथमाद्वितिये । सूत्रितं च भवति । आ ते अग्ने इधीमह्युभे सुश्चन्द्र सर्पिष इति द्वे एका च । आ. ७-८ । इति ॥

हे अग्ने देव द्युमन्तं दीप्तिमन्तमजरमजीर्णं ते त्वामा सर्वत इधीमहि । दीपयामः । यद्ध खलु स्या सा ते तव पनीयसी स्तुत्या समिद्दीप्तिर्दीदयति । दीप्यते । द्यवि द्युलोके ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२