मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् ५

संहिता

आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते ।
सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । शुक्र॑स्य । शो॒चि॒षः॒ । प॒ते॒ ।
सुऽच॑न्द्र । दस्म॑ । विश्प॑ते । हव्य॑ऽवाट् । तुभ्य॑म् । हू॒य॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

हे शोचिषो दीप्तेः पते स्वामिन्नग्ने शुक्रस्य दीप्तस्य ते तुभ्यमृचा मन्त्रेण सह हविर्हूयते । हे सुश्चन्द्र सुष्ठ्वाह्लादक शोभनहिरण्य वा हे दस्म शत्रूणामुपक्षपयितर्विश्वप्त् विशां प्रजानां पालक हव्यवाट् हविषो वोढः । इषमिति गतम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२