मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् ६

संहिता

प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् ।
ते हि॑न्विरे॒ त इ॑न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

प्रो इति॑ । त्ये । अ॒ग्नयः॑ । अ॒ग्निषु॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् ।
ते । हि॒न्वि॒रे॒ । ते । इ॒न्वि॒रे॒ । ते । इ॒ष॒ण्य॒न्ति॒ । आ॒नु॒षक् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

प्रो प्रैव पुष्यन्ति त्ये तेऽग्नयो धिष्ण्या अग्निषु गार्हपत्यादिषु । यद्वा । लौकिका अग्नयस्तेजः पादार्थोऽग्निषु वैदिकेषु विश्वं सर्वं वार्यं वरणीयमपेक्षितं धनं पुष्यन्ति । तेऽग्नयो हिन्विरे । प्रीणयन्ति । इन्विरे । व्याप्नुवन्ति च । त इषण्यन्ति । अन्नमिच्छन्ति । आनुषक् सर्वत्रानुषक्तम् । तत्राग्निसामान्याभिप्रायेणैकवचनं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३