मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् ७

संहिता

तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि॑ व्राधन्त वा॒जिनः॑ ।
ये पत्व॑भिः श॒फानां॑ व्र॒जा भु॒रन्त॒ गोना॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । महि॑ । व्रा॒ध॒न्त॒ । वा॒जिनः॑ ।
ये । पत्व॑ऽभिः । श॒फाना॑म् । व्र॒जा । भु॒रन्त॑ । गोना॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

हे अग्ने तव त्वदीयास्त्ये तेऽर्चयो रश्मयो महि महदत्यधिकं वाजिनोऽन्नवन्तो वा व्राधन्त । वर्धन्ते । यद्वा लुप्तोपमा । वाजिनोऽश्वा इव । ये रश्मयः पत्वभिः पतनैः शफानां गोनां व्रजा यूथानि भुरन्त । इच्छन्ति । आयत ज्वाला होमाय काङ्क्शन्त इत्यर्थः । ते वर्धन्ते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३