मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् ८

संहिता

नवा॑ नो अग्न॒ आ भ॑र स्तो॒तृभ्य॑ः सुक्षि॒तीरिषः॑ ।
ते स्या॑म॒ य आ॑नृ॒चुस्त्वादू॑तासो॒ दमे॑दम॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

नवाः॑ । नः॒ । अ॒ग्ने॒ । आ । भ॒र॒ । स्तो॒तृऽभ्यः॑ । सु॒ऽक्षि॒तीः । इषः॑ ।
ते । स्या॒म॒ । ये । आ॒नृ॒चुः । त्वाऽदू॑तासः । दमे॑ऽदमे । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

हे अग्ने सोत्तृभ्यो नोऽस्मभ्यं नवाः स्तुत्या नूत्ना वा सुक्षितीः सुनिवासाः सुप्रजा वा इष उक्तलक्षणान्यन्नान्या भर । प्रयच्छ । ये वयं दमे दमे सर्वेषु यागगृहेषु त्वामानृचुः । अर्चयन्ति । ते वयं त्वादूतासस्त्वां दूतं फलसूचकं लब्धवन्तः सन्तः स्याम । समृद्धा भूयास्म । दमे दमे स्यामेति वा योज्यं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३