मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् ९

संहिता

उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ ।
उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

उ॒भे इति॑ । सु॒ऽच॒न्द्र॒ । स॒र्पिषः॑ । दर्वी॒ इति॑ । श्री॒णी॒षे॒ । आ॒सनि॑ ।
उ॒तो इति॑ । नः॒ । उत् । पु॒पू॒र्याः॒ । उ॒क्थेषु॑ । श॒व॒सः॒ । प॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

अभिप्लविकेषुक्थ्येषु तृतीयसवने वैकल्पिकस्तोत्रियतृच उभे सुश्चन्द्रेत्येषा तृतीया । सूत्रमुक्तं ॥

हे सुश्चन्द्र शोभनाह्लादन शोभनहिरण्यवाग्ने उभे सर्पिषः पूर्णे दर्वी जुहूपभृतावासन्यास्ये श्रीणीषे । श्रयसि पचसि वा । उतो अपि च नोऽस्मानुक्थेषु यागेषूत्पुपूर्याः । उत्पूरय फलैः । हे शवसस्वते बलस्य पालयितः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३