मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् १०

संहिता

ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् ।
दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

ए॒व । अ॒ग्निम् । अ॒जु॒र्य॒मुः॒ । गीः॒ऽभिः । य॒ज्ञेभिः॑ । आ॒नु॒षक् ।
दध॑त् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

एवोक्तरीत्याग्निं गीर्भिः स्तुतिभिर्यज्ञेभिर्यज्ञैर्वा तत्साधनैर्हविर्भिर्वानुषगनुषक्तमजुः । गच्छन्ति । तथा कृत्वा यमुः । यमयन्ति । स्थापयन्ति । हविर्भिर्यजन्तीत्यर्थः । एवमात्रेयाः स्वान्परोक्षतया निर्दिशन्ति । अजुर्यमुरित्यत्राख्यातमाख्यातेन क्रियासातत्य इति समासः । किञ्च अस्मे अस्मासु सुवीर्यं शोभनपुत्रादिकमुतापि च त्यत्तदाश्वश्व्यम् । आशवोऽश्वा यस्य भवन्ति स आश्वश्वः । तस्य भाव् आश्वश्व्यम् । तदपि दधत् । धारयति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३