मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७, ऋक् २

संहिता

कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने ।
अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥

पदपाठः

कुत्र॑ । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । र॒ण्वाः । नरः॑ । नृ॒ऽसद॑ने ।
अर्ह॑न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒म्ऽज॒नय॑न्ति । ज॒न्तवः॑ ॥

सायणभाष्यम्

सोऽग्निः कुत्र चिद्वर्तत इति शेषः । कुत्रास्ते । यस्याग्नेः समृतौ सम्प्राप्तौ रन्वा रममाणा नरो नेतार ऋत्विजः । नृशदने यागगृहेऽर्हन्तश्चित् । चिदिति पूजायाम् । अर्हन्तः पूज्याः पूजयन्तो वा सन्तो यमिन्धते । दीपयन्ति । तदर्थं सञ्जनयन्ति चारण्यां जन्तवः प्राणिनः । स कुत्रेति सम्बन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४