मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७, ऋक् ३

संहिता

सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणाम् ।
उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥

पदपाठः

सम् । यत् । इ॒षः । वना॑महे । सम् । ह॒व्या । मानु॑षाणाम् ।
उ॒त । द्यु॒म्नस्य॑ । शव॑सा । ऋ॒तस्य॑ । र॒श्मिम् । आ । द॒दे॒ ॥

सायणभाष्यम्

यद्यदेषोऽन्नानि सं वनामहे । सम्भजामहे । यदा च मानुषाणामस्माकं हव्या हवींष्यग्निः सम्सेवते तव तदानीं द्युम्नस्य द्योतमानस्यान्नस्य शवसा बलेन सामर्थ्येन ऋतस्योदकस्य ग्राहकं रश्मिमा ददे । आदत्तेऽग्निः । फलजनकं तेजः स्वीकृतवानित्यर्थः । यद्वा । ऋतस्य यज्ञस्य रश्मिं रश्मिवद्ग्राहकं स्तवमा ददे । स्वीकरोति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४