स स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद्दू॒र आ स॒ते ।
पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा॑ मि॒नात्य॒जरः॑ ॥
सः । स्म॒ । कृ॒णो॒ति॒ । के॒तुम् । आ । नक्त॑म् । चि॒त् । दू॒रे । आ । स॒ते ।
पा॒व॒कः । यत् । वन॒स्पती॑न् । प्र । स्म॒ । मि॒नाति॑ । अ॒जरः॑ ॥
स स्म स खल्वग्निः कृणोति । करोति । केतुं प्रज्ञानमा सर्वतः । केस्येत्युच्यते । चिदप्यर्थे । नक्तं चिद्रात्रावपि दूर आ सते । आ इति चार्थे । दूरेऽपि वर्तमानाय मनुष्याय । कदा । यद्यदा पावकोऽयमग्निरजरोऽजीर्णोऽनभिभाव्यः सन् वनस्पतीनेधांसि प्र स्म मिनाति । प्रकर्षेण दहति । स्मेति पूरणः ॥ ४ ॥