मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७, ऋक् ६

संहिता

यं मर्त्य॑ः पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से ।
प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥

पदपाठः

यम् । मर्त्यः॑ । पु॒रु॒ऽस्पृह॑म् । वि॒दत् । विश्व॑स्य । धाय॑से ।
प्र । स्वाद॑नम् । पि॒तू॒नाम् । अस्त॑ऽतातिम् । चि॒त् । आ॒यवे॑ ॥

सायणभाष्यम्

यमग्निं पुरुस्पृहं बहुभिः स्पृहणीयं विदत् । वेत्ति । मर्त्यो यजमानो विश्वस्य धायसे सर्वस्य व्याप्त्यर्थं पितूनामन्नानां प्र स्वादनं प्रकर्षेण स्वादूकर्तारमस्ततातिमस्ते गृहे निवासकर्तारमायवेऽन्नार्थं यजमानार्थं वा ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५