मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७, ऋक् ७

संहिता

स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः ।
हिरि॑श्मश्रु॒ः शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ॥

पदपाठः

सः । हि । स्म॒ । धन्व॑ । आऽक्षि॑तम् । दाता॑ । न । दाति॑ । आ । प॒शुः ।
हिरि॑ऽश्मश्रुः । शुचि॑ऽदन् । ऋ॒भुः । अनि॑भृष्टऽतविषिः ॥

सायणभाष्यम्

स हि ष्म स खल्वग्निर्धन्व निरुदकप्रदेशमाक्षितं तृणकाष्ठादिभिराक्षिप्तमा दाति । सर्वतः खण्डयति । दहतीत्यर्थः । दाता तृणादिखण्डयिता पशुर्न पशुरिव । पशुर्यथा तृणजातं क्रमेण भक्षयति तद्वत् । हिरिश्मश्रुर्हिरण्यश्मश्रुः शुचिदन् दीप्तदन्त ऋभुरुरु भवन् । महानित्यर्थः । अनिभृष्टतविषिरपीडितबलः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५