मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७, ऋक् ८

संहिता

शुचि॑ः ष्म॒ यस्मा॑ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते ।
सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भग॑म् ॥

पदपाठः

शुचिः॑ । स्म॒ । यस्मै॑ । अ॒त्रि॒ऽवत् । प्र । स्वधि॑तिःऽइव । रीय॑ते ।
सु॒ऽसूः । अ॒सू॒त॒ । मा॒ता । क्रा॒णा । यत् । आ॒न॒शे । भग॑म् ॥

सायणभाष्यम्

अयमग्निः शुचिः ष्म दीप्तः खलु । यस्मा अग्नयेऽत्रिवदत्रिरिव यजमानो हविर्दातुं प्र रीयते । प्रगच्छति । यद्वा । स्मेति पूरणः । शुचिर्यस्मै । प्रथमार्थे चतुर्थी । दीप्तो योऽत्रिवत् । अत्ति तृणमित्यत्रिः पशुः । स इव । स यथा तृणानि खादमानो गच्छति तद्वद्दहतीत्यर्थः । स्वधितिरिव परशुरिव छिन्दन् । सुषूः सुप्रसवा मातरणिरसूत क्राणा कुर्वाणं जगदुपकारकम् । यद्यस्मात् य इति वा । योऽग्निर्भगमन्नमानशे । अश्नुते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५