मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७, ऋक् ९

संहिता

आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से ।
ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥

पदपाठः

आ । यः । ते॒ । स॒र्पिः॒ऽआ॒सु॒ते॒ । अग्ने॑ । शम् । अस्ति॑ । धाय॑से ।
आ । ए॒षु॒ । द्यु॒म्नम् । उ॒त । श्रवः॑ । आ । चि॒त्तम् । मर्त्ये॑षु । धाः॒ ॥

सायणभाष्यम्

हे सर्पिरासुते घृताख्यान्नाग्ने यस्त्वमा सर्वतो भवसि तादृशाय धायसे सर्वस्य धात्रे ते तुभ्यं शमस्ति । सुखमस्ति । स्तुतेः सकाशात् । तथा चेत् । एषु मर्त्येषु स्तोतृष्वात्रेयेषु द्युम्नं यश आ धाः । आधेहि । उतपि च श्रवोऽन्नमा धाः । चित्तं त्वदीयामनुग्रहबुद्धिमप्या धाः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५