मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७, ऋक् १०

संहिता

इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे ।
आद॑ग्ने॒ अपृ॑ण॒तोऽत्रि॑ः सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥

पदपाठः

इति॑ । चि॒त् । म॒न्युम् । अ॒ध्रिजः॑ । त्वाऽदा॑तम् । आ । प॒शुम् । द॒दे॒ ।
आत् । अ॒ग्ने॒ । अपृ॑णतः । अत्रिः॑ । स॒स॒ह्या॒त् । दस्यू॑न् । इ॒षः । स॒स॒ह्या॒त् । नॄन् ॥

सायणभाष्यम्

इति चित् इत्थं कृतप्रकारेण मन्युं मननसाधनं स्तोत्रमद्रिजः । अधृतमन्यैरग्निव्यतिरिक्तैरधृष्यं वा जनयिता ऋषिस्त्वादातं त्वया दातव्यं पशुमा ददे । आदत्ते । आददीत वा । आदनन्तरमेवाग्नेरपृणतोऽददतो दस्यूनत्रिस्तद्गोत्र इषः सासह्यात् । भृशमभिभवेत् । इष एष्टॄन्नॄन् विरोधिनः सासह्यात् । पुनरुक्तिरादरार्था ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५