मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८, ऋक् १

संहिता

त्वाम॑ग्न ऋता॒यव॒ः समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत ।
पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यम् ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । ऋ॒त॒ऽयवः॑ । सम् । ई॒धि॒रे॒ । प्र॒त्नम् । प्र॒त्नासः॑ । ऊ॒तये॑ । स॒हः॒ऽकृ॒त॒ ।
पु॒रु॒ऽच॒न्द्रम् । य॒ज॒तम् । वि॒श्वऽधा॑यसम् । दमू॑नसम् । गृ॒हऽप॑तिम् । वरे॑ण्यम् ॥

सायणभाष्यम्

त्वामग्न इति सप्तर्चमष्टमं सूक्तमात्रेयस्येषस्यार्षं जागतमाग्नेयम् । त्वामग्ने सप्त जागतमित्यनुक्रमणिका । प्रातरनुवाक आग्नेये क्रतौ जागते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । तथा च सूत्रम् । जनस्य गोपस्त्वामग्ने ऋतायवः । आ. ४-१३ । इति ॥

हे सहस्कृत बलस्य कर्तरग्ने प्रत्नं पुरातनं त्वां प्रत्नासः पुरातना ऋतायवो यज्ञकामा ऋषय ऊतये स्वरक्षणाय समीधिरे । सम्यग्दीपितवन्तः । कीदृशं त्वाम् । पुरुश्चन्द्रं बहुधनमतिशयेनाह्लादकं वा यजतं यष्टव्यं विश्वधायसं बह्वन्नं दमूनसं दानमनसं गृहपतिं यजमानगृहस्य पालकं वरेण्यं वरणीयं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६