मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८, ऋक् ४

संहिता

त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा॑ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम ।
स नो॑ जुषस्व समिधा॒नो अ॑ङ्गिरो दे॒वो मर्त॑स्य य॒शसा॑ सुदी॒तिभि॑ः ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । ध॒र्ण॒सिम् । वि॒श्वधा॑ । व॒यम् । गीः॒ऽभिः । गृ॒णन्तः॑ । नम॑सा । उप॑ । से॒दि॒म॒ ।
सः । नः॒ । जु॒ष॒स्व॒ । स॒म्ऽइ॒धा॒नः । अ॒ङ्गि॒रः॒ । दे॒वः । मर्त॑स्य । य॒शसा॑ । सु॒दी॒तिऽभिः॑ ॥

सायणभाष्यम्

हे अग्ने धर्णसिं सर्वस्य धारकं त्वां वयमात्रेया वा विश्वधा बहुप्रकारेण गीर्घिर्गृणन्तः स्तुवन्तो नमसा नमस्कारेणोप सेदिम । उपसन्नाभवेम । सत्वं नोऽस्मान् जुषस्व । सेवस्व धनादिभिः । समिधानः सम्यग्दीप्तो दीप्यमानोऽस्माभिर्हे अङ्गिरः सर्वत्र गन्तरङ्गिरसः पुत्र वा देवो दीप्यमानस्त्वं मर्त्यस्य यजमानस्य यशसा सुदीतिभिर्ज्वालाभिः सह जुषस्व ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६