त्वम॑ग्ने पुरु॒रूपो॑ वि॒शेवि॑शे॒ वयो॑ दधासि प्र॒त्नथा॑ पुरुष्टुत ।
पु॒रूण्यन्ना॒ सह॑सा॒ वि रा॑जसि॒ त्विषि॒ः सा ते॑ तित्विषा॒णस्य॒ नाधृषे॑ ॥
त्वम् । अ॒ग्ने॒ । पु॒रु॒ऽरूपः॑ । वि॒शेऽवि॑शे । वयः॑ । द॒धा॒सि॒ । प्र॒त्नऽथा॑ । पु॒रु॒ऽस्तु॒त॒ ।
पु॒रूणि॑ । अन्ना॑ । सह॑सा । वि । रा॒ज॒सि॒ । त्विषिः॑ । सा । ते॒ । ति॒त्वि॒षा॒णस्य॑ । न । आ॒ऽधृषे॑ ॥
हे अग्ने त्वं पुरुरूपः सन् विशे विशे सर्वस्मै यजमानाय प्रत्नथा पुराण इव वयोऽन्नं दधासि । धारयसि । हे पुरुष्टुत बहुभिः स्तुत्य पुरूणि बहून्यन्नान्नानि चरुपुरोडाशादीनि सहसा बलेन वि राजसि । ईश्वरो भवसि स्वीकर्तुम् । तित्विषाणस्य दीप्तस्य ते तव सा प्रसिद्धा त्विषिर्दीप्तिर्नाधृषे । अन्यैरधृष्या भवति ॥ ५ ॥