मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८, ऋक् ६

संहिता

त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नम् ।
उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नम् । य॒वि॒ष्ठ्य॒ । दे॒वाः । दू॒तम् । च॒क्रि॒रे॒ । ह॒व्य॒ऽवाह॑नम् ।
उ॒रु॒ऽज्रय॑सम् । घृ॒तऽयो॑निम् । आऽहु॑तम् । त्वे॒षम् । चक्षुः॑ । द॒धि॒रे॒ । चो॒द॒यत्ऽम॑ति ॥

सायणभाष्यम्

हे यविष्ठ्य युवतमाग्ने समिधानं सम्यगिध्यमानं त्वां हव्यवाहनं हविषां वोढारम् दूतं चक्रिरे । कृतवन्तो देवाः । त्रयाणामग्नीनां मध्ये हव्यवाहनः खलु पूर्वं देवैर्हविर्वहनाय दूतः कृतः । हव्यवाहनो देवानाम् । तै. सं. २-५-८-६ । इति हि श्रुतिः । किञ्च उरुज्रयसं प्रभूतवेगं घृतयोनिम् । घृतं योनिः कारणं यस्य तम् । आहुतं त्वां चोदयन्मति । चोदयन्ती मतिर्यस्य तच्चोदयन्मति । त्वेषं दीप्तं चक्षुरुक्तलक्षणं सर्वप्रकाशकं चक्षुः स्थानीयं कृत्वा दधिरे देवा मनुष्याश्च । मर्त्या हि चक्शुश्चोद्यते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६