मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८, ऋक् ७

संहिता

त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु॑म्ना॒यवः॑ सुष॒मिधा॒ समी॑धिरे ।
स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॒॑ऽभि ज्रयां॑सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । प्र॒ऽदिवः॑ । आऽहु॑तम् । घृ॒तैः । सु॒म्न॒ऽयवः॑ । सु॒ऽस॒मिधा॑ । सम् । ई॒धि॒रे॒ ।
सः । व॒वृ॒धा॒नः । ओष॑धीभिः । उ॒क्षि॒तः । अ॒भि । ज्रयां॑सि । पार्थि॑वा । वि । ति॒ष्ठ॒से॒ ॥

सायणभाष्यम्

हे अग्ने घृतैराहुतं त्वां प्रदिवः पुरातनाः सुम्नायवः सुखमिच्छन्तो यजमानाः सुशमिधा शोभनेनेध्मेन समिधिरे । सम्यक् दीपितवन्तः । स त्वं वावृधानो वर्धमान ओषधीभिरुक्षितः सिक्तो ज्रयांस्यन्नानि पार्थिवा पार्थिवान्वृक्षान् । यद्वा । पार्थिवेति ज्रयोविशेशणम् । पार्थिवानि चरुपुरोडाशादिकान्यभि वितिष्ठसे । अभिव्यज्य वर्तसे ॥ ७ ॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्
पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
श्रीमत्सायण मन्त्रीशो दाशतय्यास्तृतीयके । अश्टके सप्तमाध्यायं व्याकार्षीदतिपेशलम् ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६