मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ९, ऋक् ३

संहिता

उ॒त स्म॒ यं शिशुं॑ यथा॒ नवं॒ जनि॑ष्टा॒रणी॑ ।
ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥

पदपाठः

उ॒त । स्म॒ । यम् । शिशु॑म् । य॒था॒ । नव॑म् । जनि॑ष्ट । अ॒रणी॒ इति॑ ।
ध॒र्तार॑म् । मानु॑षीणाम् । वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥

सायणभाष्यम्

उतस्म अपिच मानुषीणां मनोर्जातानां विशां विशान्तिप्रविशन्तिगर्भाशयमितिविशः प्रजा: तासांधर्तारं आहारादिपाकद्वारेणशरी- रधातूनांपोषकं स्वध्वरं शोभनयज्ञं यमग्निं अरणी द्वेअरणी नवंनूतनंशिसुः यथा अपत्यमिवजनिष्टाजनिषाताम् अरणी प्रजानांपोषणा र्थंच एतमग्निं असृजतामित्यर्थः ॥ शिशुं शोतनूकरणे आदेचइत्यादिनाआत्वं शःकित्सन्वञ्चेत्युप्रत्ययः सन्वद्भावश्च द्विर्भावः अभ्यासस्य- ह्रस्वश्च सन्यतइतीत्वं आतोधातोरित्याकारलोपः धान्येनित् अस्मात्सूत्रान्निदित्यनुवर्तते नित्त्वादाद्युदात्तः । यथा यथेतिपादा- न्तेइतिसर्वानुदात्तः । जनिष्ट जनीप्रादुर्भावे लुङ् छान्दसत्वाद्वचनव्यत्ययः । अरणी ऋगतौ अर्तिसृभृधृधम्यश्यवितॄभ्योनिरितिअनिः- प्रत्ययः आद्युदात्तः आभ्यार्मीतगच्छत्यग्निरित्यरणी कथमपादानार्थेऔणादिकोनिःताभ्यामन्यत्रोणादयइतिनियमात् भीमादित्वात्सिद्धम् । मानुषीणां मनोर्जातावञ्यतौषुक् चेत्यञ् प्रत्ययः षुगागमश्च ञ्नित्या-दिर्नित्यमित्याद्युदात्तत्वम् । विशां विशप्रवेशने कर्तरिक्विप् सावेकाचइतिविभक्तेरुदात्तत्वम् । स्वध्वरं हिंसार्थस्यध्वरतेः पचाद्यच् नविद्यतेध्वरोयागहिंसायस्मिन्नित्यध्वरः बहुव्रीहिस्वरापवाद- त्वेननञ् सुभ्यामित्यन्तोदात्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः