मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ९, ऋक् ४

संहिता

उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा॑म् ।
पु॒रू यो दग्धासि॒ वनाग्ने॑ प॒शुर्न यव॑से ॥

पदपाठः

उ॒त । स्म॒ । दुः॒ऽगृ॒भी॒य॒से॒ । पु॒त्रः । न । ह्वा॒र्याणा॑म् ।
पु॒रु । यः । दग्धा॑ । असि॑ । वना॑ । अग्ने॑ । प॒शुः । न । यव॑से ॥

सायणभाष्यम्

उतस्म अपिच ह्वार्याणां कुटिलंगच्छतां सर्पाणां यद्वा आस्कन्दितादिगतिविशेषेणवऋगमनानां अश्वानां पुत्रोन पुत्रइव वालसर्पइवअशिक्षितवालाश्वइव वा दुर्गृभीयसदुःखेनगृह्यसे हेअग्ने यस्त्वं पुरु पुरूणि बहूनि वना वनानि दग्धासि दाहकोभवसि कथमिव यवसेतृणेपशुर्न पशुरिव अयमर्थः अत्यन्तक्षुधार्तःपशुः तृणविषयेविसृष्टःसन् यथासर्वंभक्षयति तद्वदित्यर्थः ॥ दुर्गृभीयसे ग्रहउपादाने यक् ब्रुवईडित्यनुवृत्तौ बहुलंछन्दसीतीडागमः ग्रह्यादिनासंप्रसारणं हग्रहोर्भश्छन्दसीतिभकारः निघातः । ह्वार्याणां ह्वृकौटिल्ये ऋहलोर्ण्यत् आदिवृद्धिः तित्स्वरितइतिस्वरितत्वम् । पुरु पॄपालनपूरणयोः पॄभिदिव्यधिधृषिदृशिभ्यइतिकुप्रत्ययः उदोष्ठ्यपूर्वस्येतिउत्वम् प्रत्ययस्वरेणान्तोदात्तः । असि यद्वृत्तान्नित्यमितिननिघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः