मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ९, ऋक् ६

संहिता

तवा॒हम॑ग्न ऊ॒तिभि॑र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः ।
द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या॑नाम् ॥

पदपाठः

तव॑ । अ॒हम् । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । मि॒त्रस्य॑ । च॒ । प्रश॑स्तिऽभिः ।
द्वे॒षः॒ऽयुतः॑ । न । दुः॒ऽइ॒ता । तु॒र्याम॑ । मर्त्या॑नाम् ॥

सायणभाष्यम्

हेअग्ने अहं मित्रस्य सर्वेषांमित्रभूतस्य तव ऊतिभिः युष्मत्कर्तृकरक्षणैः युष्मत्प्रशस्तिभिश्च अस्मत्कृतैःस्तोत्रैश्चमर्त्यानां शत्रुभूतानां मनुष्याणां दुरिता दुरितानि तत्कर्तृकानि पापसाधनकर्माणि द्वेषोयुतोन द्वेषयुक्तान् शत्रूनिव तुर्याम तरेयं अयमर्थस्त्वद्रक्षणैस्त्वत्संबन्धिस्तुतिभिश्च बाह्याभ्यन्तरशत्रून् तरेयमित्यर्थः ॥ ऊतिभिः अवरक्षणे क्तिन् ज्वरत्वरस्रिव्यविमवामुपधायाश्चेत्यूठ् ऊतियूतिजूतिसातिहेतिकीर्तयश्चेत्यन्तोदात्तत्वेनिपातितः । प्रशस्तिभिः शंसुस्तुतौ क्तिन् कृदुत्तरपदप्रकृतिस्वरापवादत्वेन तादौचनितिकृत्यतावितिगतेरुदात्तत्वम् । द्वेषोयुतः द्विषअप्रीतौ भावे असुन्प्रत्ययः युमिश्रणे कर्तरिक्विप् तुक् कृदुत्तरपदप्रकृतिस्वरत्वम् । तुर्याम तॄप्लवनतरणयोः प्रार्थनायांलिङ् यासुट् लिङःसलोपोनंत्यस्येतिसकारलोपः बहुलंछन्दसीतिशपोलुक् उदोष्ठ्यपूर्वस्यबहुलंछ्न्दसीत्युत्वं यासुडागमस्यउदात्तत्वात् शोषनिघातःअपादादावितिप्रतिषेधात् निघाताभावः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः