मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ९, ऋक् ७

संहिता

तं नो॑ अग्ने अ॒भी नरो॑ र॒यिं स॑हस्व॒ आ भ॑र ।
स क्षे॑पय॒त्स पो॑षय॒द्भुव॒द्वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥

पदपाठः

तत् । नः॒ । अ॒ग्ने॒ । अ॒भि । नरः॑ । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ ।
सः । क्षे॒प॒य॒त् । सः । पो॒ष॒य॒त् । भुव॑त् । वाज॑स्य । सा॒तये॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥

सायणभाष्यम्

हेअग्ने सहस्वः बलवन् नरः हविषांनेतारः नोस्माकं तं रयिं लोकेप्रसिद्धं पश्वादिलक्षणं धनं अभ्याभर आभिमुख्येनआहर पूर्वोक्तःसोग्निः क्षेपयत्अस्मदीयान् शत्रूनक्षेपयतु सोग्निःपोषयठ अस्मान्पोषयतु वाजस्यान्नस्यसातयेलाभायभुवत् भवतु उत अपिच हेअग्ने पृत्सु पृतनासु युद्धेषु नोस्माकंवृधे समृद्धये एधि भव संग्रामेशत्रुविजयार्थंसत्वसमृद्धिंकुर्वित्यर्थः ॥ सहस्वः सहमर्षणे असुन् सहत्यनेनशत्रूनितिसहोबलं मतुप् महादुपधायाइतिवत्वम् मतुवसोरुसंबुद्धौछन्दसीतिरुत्वम् आमंत्रितस्यचेतिनिघातः । क्षेपयत् क्षिपप्रेरणे णिजंताल्लेट् इतश्चलोपः लेटोडाटावित्यडागमः शप् गुणायादेशौ पररूपत्वं च । पोषयत् पुषपुष्टौ । भुवत् भूसत्तायां भूसुवोस्तिङीतिगुणप्रतिषेधः उवङ् । एधि असभुवि ध्वसोरेद्धावभ्यासलोपश्चेत्येत्वं तस्यासिद्धत्वात् हुझल्भ्योहेर्धिरितिधिरा- देशःनिघातः । पृस्तु पदादिष्वित्यादिनापृतनाशब्दस्यपृदादेशः सावेकाचूत्वादन्तोदात्तत्वम् ॥ ७ ॥

अग्नओजिष्ठमितिसप्तर्चंदशमंसूक्तं ऋष्यादिविनियोगश्चपूर्ववत् चतुर्थीसप्तम्यौपंक्ती अग्नओजिष्ठमंत्याचतुर्थीचेत्यनुक्रान्तम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः