मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १०, ऋक् २

संहिता

त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।
त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा॑ । दक्ष॑स्य । मं॒हना॑ ।
त्वे इति॑ । अ॒सु॒र्य॑म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः॑ ॥

सायणभाष्यम्

हेअग्ने अद्भुतसामर्थ्यातिशयेनसर्वेषामाश्चर्यभूत त्वं नोस्माकं क्रत्वा कर्मणा अस्मात्कृतेनयज्ञादिव्यापारेणप्रीतःसन् दक्षस्य बलस्य धनस्यवा मंहना मंहनंनामदानंकुर्वितिशेषः यतःकारणात् त्वे त्वयि असुर्यं असुरघ्नंबलं आरुहत् आरूढं अतः मित्रोन सूर्यइव यज्ञियः यज्ञार्हस्त्वं क्राणायज्ञघातकराक्षसापनोदनलक्षणानिकर्माणिकुर्वाणोभव ॥ अद्भुत आमंत्रितस्याद्युदात्तत्वम् । क्रत्वा डुकृञ् करणे कृञःकतुरितिकतुप्रत्ययः ककारोगुणवृद्धिप्रतिषेधार्थः यणादेशः क्रतुः कर्मतृतीयैकवचनेजसादिषुवावचनमितिवचनान्नाभावाभावः । दक्षस्य दक्षगतिहिंसनयोः दक्ष्यन्तेहिंस्यन्तेअनेनशत्रवइतिदक्षंबलं करणाधिकरणयोश्चेतिघञ् ञित्त्वादाद्युदात्तः । मंहना मंहतिर्दानकर्मा सुपांसुलुगित्याकारादेशः । त्वे सुपांसुलुगित्यादिनाङेशेआदेशः सुवादेशत्वादनुदात्तः त्वशब्दःप्रत्ययस्वरेणान्तोदात्तः एकादेशउदात्तेनोदात्तइत्येकादेशस्योदात्तत्वम् । आरुहत् रुहेर्धातोर्लुङि कृमृदृरुहिभ्यश्छन्दसीतिविकरणस्यलुक् यणादेशः सुपांसुलुगित्यात्वं चितइत्यन्तोदात्तः । यज्ञियः यज्ञमर्हतीत्यस्मिन्नर्थे यज्ञर्त्विग्भ्यांघखञावितिघः प्रत्ययस्वरेणान्तोदात्तः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः