मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १०, ऋक् ३

संहिता

त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।
ये स्तोमे॑भि॒ः प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । ए॒षा॒म् । गय॑म् । पु॒ष्टिम् । च॒ । व॒र्ध॒य॒ ।
ये । स्तोमे॑भिः । प्र । सू॒रयः॑ । नरः॑ । म॒घानि॑ । आ॒न॒शुः ॥

सायणभाष्यम्

हेअग्ने त्वं एषां नः त्वत् स्तावकानामस्माकं गयं गम्यतेनिवासायेतिगयंगृहं गीयते स्तुयतइतिवागयंधनं पुष्टिंच गवादिविषयांपुष्टिंचवर्धय वृद्धिंप्रापय येलोकेप्रसिद्धाः सूरयोलब्धवर्णानरःस्तोतारोमनुष्याः स्तोमेभिः स्तोमैःस्तोत्रैः मघानिमंहनीयानिगवादिधनानि यथाप्रानशुःप्राप्नुवन् तद्वद्वयमपीत्यर्थः ॥ गयं गृहपक्षेगमेरध्र्यादयश्चेतियत्प्रत्ययान्तो- मकारलोपश्चनिपात्यते धनपक्षे गास्तुतौ अस्मात् यत्प्रत्ययोह्रस्वत्वं यतोनावइत्याद्युदात्तत्वम् । पुष्टिम् पुषपुष्टौ स्त्रियांक्तिन् छान्दसत्वादन्तोदात्तत्वम् । स्तोमेभिः ष्टुञ् स्तुतौ अर्तिस्तुसुहुइत्यादिनामन् गुणः नित्त्वादाद्युदात्तः । आनशुः अशूव्याप्तौ लिट् द्विर्वचनं हलादिशेषः अतआदेरित्यात्वं अश्नोतेश्चेतिनुडागमण् निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः