मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १०, ऋक् ४

संहिता

ये अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः ।
शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥

पदपाठः

ये । अ॒ग्ने॒ । च॒न्द्र॒ । ते॒ । गिरः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।
शुष्मे॑भिः । शु॒ष्मिणः॑ । नरः॑ । दि॒वः । चि॒त् । येषा॑म् । बृ॒हत् । सु॒ऽकी॒र्तिः । बोध॑ति । त्मना॑ ॥

सायणभाष्यम्

हेअग्ने चन्द्र सर्वेषांप्राणिनामाह्ळादकर येनरः तेगिरः त्वत्संबन्धिस्तोत्ररूपावाचः सुंभन्ति शोभनाःकुर्वन्ति ते अश्वराधसः अश्वधनाभवन्ति एतेनसर्वसमृद्धिरुपलक्ष्यते किं च शुष्मिणःबलवन्तःसन्तः शुष्मेभिःशुष्मैः स्वकीयैर्बलैः सत्वैः शत्रुशोषकाभवन्ति येषां त्वत्संबन्धिनंस्तवंकुर्वतां दिवश्चित् आकाशादपि बृहत् महतीसुकीर्तिर्भवति सर्वदिगन्तरालवर्तिनीकीर्तिर्भवतीत्यर्थः एवंविधंत्वां गयः त्मना आत्मना स्वयमेवबोधति बोधयति ॥ शुंभंति शुभशुंभदीप्तौ तुदादिः पादादित्वान्निघाताभावः लसार्वधातुकानुदात्तत्वेप्राप्ते सतिशिष्टत्वाद्विकरणस्वरएव । अश्वराधसः अशूव्याप्तौ अशूप्रुषीत्यादिनाक्वन् अश्नुतेव्याप्नोत्यध्वानमित्यश्वः नित्त्वादाद्युदात्तः राधसाधसंसिद्धौ असुन् राध्नुवन्ति साधयन्ति अनेन धर्मादीनीतिराधोधनम् बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम् । बृहत् वृहवृहिवृद्धौ शतृ ङीपोलोपश्छान्दसः प्रत्ययस्वरः । बोधति बुधअवगमने ण्यन्तात् शपिकृते तस्यछन्दस्युभयथेतिसार्वधातुदसंज्ञायांणिलोपः यद्रृत्तान्नित्यमितिनिघाताभावः धातुस्वरेणाद्युदात्तः । त्मना मंत्रेष्वाङ्चादेरात्मनइत्याकारलोपः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः