मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १०, ऋक् ५

संहिता

तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या ।
परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा॑ज॒युः ॥

पदपाठः

तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । भ्राज॑न्तः । य॒न्ति॒ । धृ॒ष्णु॒ऽया ।
परि॑ऽज्मानः । न । वि॒ऽद्युतः॑ । स्वा॒नः । रथः॑ । न । वा॒ज॒ऽयुः ॥

सायणभाष्यम्

हेअग्ने धृष्णुया धृष्णवः अत्यन्तप्रगल्भाः भ्राजन्तः दीप्यमानाः त्ये ते प्रसिद्धाः तव अर्चिषः त्वदीयारश्मयः यन्ति सर्वतोगच्छन्ति कथमित्र परिज्मानः परितोगंत्र्यः सर्वतोव्याप्ताः विद्युतोन अचिरप्रभाइवअनेनप्रकाशातिशयउक्तः स्वानः शब्दायमानः स्थोन रथइव अनेनार्चिषां स्वनाधिक्यमुक्तं वाजयुर्न अन्नकामइव अन्नार्थंयुद्धेषुशत्रुविजयाययथाप्रवर्ततेतद्वदित्यर्थः अनेनाअहुतिविषयोभिलाषउक्तः ॥ यंति इण् गतौ । धृष्णुया ञिधृषाप्रागल्भ्ये त्रसिगृधिधृषीत्यादिनाक्नुप्रत्ययः आदितश्चेतीट्प्रतिषेधः बहुवचने सुपांसुलुगित्यादिनायाजादेशः चितइत्यंतोदात्तत्वम् । परिज्मानः अजव्रजगतौ परिपूर्वाद्धातोः अन्येभ्योपिदृश्यन्तइतिमनिन् अकारलोपश्छान्दसः नित्त्वाद्युदात्तः । वाजयुः वाजंआत्मनइच्छतीतिक्यच् नच्छंदस्यपुत्रस्येतिईत्वदीर्घयोःप्रतिषेधः क्याच्छन्दसीत्युप्रत्ययः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः