मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १०, ऋक् ६

संहिता

नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।
अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥

पदपाठः

नु । नः॒ । अ॒ग्ने॒ । ऊ॒तये॑ । स॒ऽबाध॑सः । च॒ । रा॒तये॑ ।
अ॒स्माका॑सः । च॒ । सू॒रयः॑ । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥

सायणभाष्यम्

हेअग्ने नोस्माकं नु क्षिप्रं ऊतये रक्षायै भव सबाधसश्च द्रारिद्मनिमित्तबाधसहितस्यच धनस्य रातये दानायभव किंच अस्माकासः अस्माकाः पुत्रमित्रादयः सूरयः स्तोतारः विश्वाः सर्वाः आशाः दिशः तरीषणि तासांतरणेक्षमाभवन्तु अथवा आशाःकामाः अयमर्थः स्वाभिलषितप्रशस्तसमस्तवस्तुसंपादनंकुर्वित्यर्थः ॥ सबाधसः बाधेरसुन् बाधसासहवर्ततेइति सबाधाः वोपसर्जनस्येतिसहस्यसभावः कृदुत्तरपदप्रकृतिस्वरत्वम् । रातये रादाने क्तिन् मंत्रेवृषेषपचमनविदभूवीराउदात्तइतिअन्तोदात्तः । अस्माकासः तस्मिन्नणिचयुष्माकास्माकावितिअणिकृते अस्माकादेशः छान्दसत्वादणोलोपः बहुवचने असुगागमः षष्ठीबहुवचनेमध्योदात्तत्वेनदृष्टत्वात् तथाविधमादेशमत्रापिकृतवानाचार्यः । विश्वाः विशेःअशूप्रुषीत्यादिनाक्वन् नित्त्वादाद्युदात्तः । तरीषणि तॄप्लवनतरणयोः कॄतॄभ्यामीषन्नितीषन् बहुलवचनत्वे अलोपाभावः अन्तोदात्तश्छान्दसः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः