मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १०, ऋक् ७

संहिता

त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।
होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्य॒ः स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । स्तु॒तः । स्तवा॑नः । आ । भ॒र॒ ।
होतः॑ । वि॒भ्व॒ऽसह॑म् । र॒यिम् । स्तो॒तृऽभ्यः॑ । स्तव॑से । च॒ । नः॒ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥

सायणभाष्यम्

हेअग्ने अंगिरः कार्यकारणयोरभोदोपचारात् अंगिरसांप्रकृतिभूतोप्यग्निः अंगिराइत्युच्यते हेअंगिरः पूवैर्महर्षिभिःस्तुतः स्तवानः इदानींतनैश्च स्तूयमानस्त्वं विश्वसहं महतामप्यभिभवितारंअभिभव हेतुत्वादभिभवितृधनमित्युच्यते रयिं धनं नोस्माकं आभर आहर हेहोतः देवानामाह्वातः स्तोतृभ्योनोस्मभ्यं स्तवसे स्तोतुं सामर्थ्यंचप्रयच्छ उतापिच पृत्सुयुद्धेषु नोस्माकं वृधे समृद्धये एधि भव ॥ स्तवानः ष्टुञ् स्तुतौ शानचि कर्मणि व्यत्ययेनशप्प्रत्ययः आद्युदात्तश्च । विभ्वासहं संहितायांविभूनामितिषष्ठी बहुवचनस्य- सुपामित्यादिनाआदारादेशः विपूर्वद्भवतेरगागमे अन्येषामपिदृश्यतइतिदीर्घत्वंचमत्वा अवग्रहंकुर्वंति तदुत्तरपदप्रकृतिस्वरत्वम् । स्तवसे ष्टुञ् स्तुतौ तुमर्थेअसेन्प्रत्ययः नित्त्वादाद्युदात्तः ॥ ७ ॥

जनस्यगोपाइतिषळृचमेकादशंसूक्तं आत्रेयस्यसुतंभरस्यार्षं जागतमाग्नेयं तथाचानुक्रान्तम्-जनस्यषट् सुतंभरोजागतमिति । प्रातरनुवाकेआश्विनशस्त्रेचास्यसूक्तस्यविनियोगः जनस्यगोपास्त्वामग्नऋतायवइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः