मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ११, ऋक् १

संहिता

जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्ष॑ः सुवि॒ताय॒ नव्य॑से ।
घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्य॒ः शुचि॑ः ॥

पदपाठः

जन॑स्य । गो॒पाः । अ॒ज॒नि॒ष्ट॒ । जागृ॑विः । अ॒ग्निः । सु॒ऽदक्षः॑ । सु॒वि॒ताय॑ । नव्य॑से ।
घृ॒तऽप्र॑तीकः । बृ॒ह॒ता । दि॒वि॒ऽस्पृशा॑ । द्यु॒ऽमत् । वि । भा॒ति॒ । भ॒र॒तेभ्यः॑ । शुचिः॑ ॥

सायणभाष्यम्

जनस्यगोपाःगोपायिता रक्षिता गागृविः जागरणशीलः सदाप्रबुद्धः सुदक्षः सुबलः सर्वैः श्लाघनीयबलः सोग्निः नव्यसे नवतराय सुविताय लोकानांकल्याणायअजनिष्टजातः घृतप्रतीकः घृतेनप्रज्वालितांगः बृहतामहतादिविस्पृशा अभ्रंलिहेनतेजसायुक्तः शुचिः शुद्धः एवं विधोग्निः भरतेभ्यः ऋत्विग्भ्यः तदर्थंद्युमत् दीप्तिमत् यथाभवतितथाविभाति प्रकाशते ॥ गोपाः गुपूरक्षणे आयः प्रत्ययः गोपायतेःक्विप् प्रत्वादकारलोपः अत्र परत्वादपृक्तलोपेकृते वर्णाश्रयत्वात्प्रत्ययलक्षणाभावेनयलोपोनस्यात् लोपोव्योर्वलीतिप्रथमं -लोपग्रहणात् ज्ञापकात् यलोपएवभवति लोपाजादेशस्य यलोपविधिंप्रतिनस्थानिवद्भावः प्रत्ययस्वरः । जागृविः जागृनिद्राक्षये जॄशॄस्तॄजागृभ्यः क्विन्नितिक्विन्प्रत्ययः जाग्रोविञ्चिण्णल्ङित्स्वितिप्रतिषेधाद्रुणाभावः नित्त्वादाद्युदात्तः । सुदक्षः आद्युदात्तंड्मच् छन्दसीत्युत्तरपदाद्युदात्तत्वम् । सुविताय तन्वादीनांछन्दस्युपसंख्यानमितिसोरुवङादेशः सूपमानात् क्तइत्युत्तरपदाद्युदात्तत्वम् । नव्यसे नवशब्दादतिशायनेर्थेईयसुन् प्रत्ययः ईकारलोपश्छान्दसः अतोलोपः आद्युदात्तः । दिविस्पृशा हृद्युभ्यांङेरित्युपसंख्यानमित्यलुक् कृदुत्तरपदप्रकृतिस्वरत्वम् । द्युमत् ह्रस्वनुड्भ्यांञतुबितिह्रस्वात्परस्यमतुपः अन्तोदात्तत्वम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः