मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ११, ऋक् २

संहिता

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे ।
इन्द्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतु॑ः ॥

पदपाठः

य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । अ॒ग्निम् । नरः॑ । त्रि॒ऽस॒ध॒स्थे । सम् । ई॒धि॒रे॒ ।
इन्द्रे॑ण । दे॒वैः । स॒रथ॑म् । सः । ब॒र्हिषि॑ । सीद॑त् । नि । होता॑ । य॒जथा॑य । सु॒ऽक्रतुः॑ ॥

सायणभाष्यम्

नरः ऋत्विजः यज्ञस्ययागस्यकेतुं प्रज्ञापकं पुरोहितं यजमानैःपुरस्कृतं इंद्रेण देवैश्च सरथं तेषां मान्यत्वात्समानरथं अग्निं त्रिसधस्थे त्रिस्थाने विहारप्रदेशे प्रथमं समीधिरे समैन्धत सुक्रतुः शोभनकर्माहोता देवानामाह्वाता सोग्निः बर्हिषि बर्हिर्युक्तेतस्मिन्स्थाने यजथाय यज्ञाय निषीदत् प्रतिष्ठितोभवदितियावत् ॥ केतुं कितज्ञाने औणादिकउप्रत्ययः अन्तोदात्तः । पुरोहितं पुरोव्ययमितिगतिसंज्ञायांगति- रनन्तरइतिपूर्वपदप्रकृतिस्वरत्वम् । त्रिषधस्थ आहवनी यादिलक्षणेनत्रिप्रकारेण अग्निनासह तिष्ठतीति -त्रिषधस्थः कप्रत्ययःसधमादस्थ- योश्छन्दसीतिसधादेशः कृदुत्तरपदकृतिस्वरत्वम् । सीदत् सदेः प्राघ्नदिनासीदादेशः बहुलंछन्दस्यमाङ्योगेपीत्यडभावः पादादित्वा- न्निघाताभावः । यजथाय यजेरौणादिकः अथप्रत्ययः प्रत्ययस्वरेणान्तोदात्तः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः