मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ११, ऋक् ५

संहिता

तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं॑ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे ।
त्वां गिर॒ः सिन्धु॑मिवा॒वनी॑र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय॑न्ति च ॥

पदपाठः

तुभ्य॑ । इ॒दम् । अ॒ग्ने॒ । मधु॑मत्ऽतमम् । वचः॑ । तुभ्य॑म् । म॒नी॒षा । इ॒यम् । अ॒स्तु॒ । शम् । हृ॒दे ।
त्वाम् । गिरः॑ । सिन्धु॑म्ऽइव । अ॒वनीः॑ । म॒हीः । आ । पृ॒ण॒न्ति॒ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥

सायणभाष्यम्

हेअग्ने तुभ्य तुभ्यं त्वदर्थं मधुमत्तमं अत्यन्तमधुरंइदंवचः क्रियते हृदे हृदि शंसुखंकुर्वती इयंमनीषास्तुतिः तुभ्यमस्तु गिरःस्तुतिरूपावाचःत्वांआपृणन्ति पूरयन्ति शवसाबलेनवर्धयन्तिच कथमिव महीः महत्यः अवनीः अवन्योनद्यः सिन्धुमिव समुद्रमिव ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः