मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ११, ऋक् ६

संहिता

त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने ।
स जा॑यसे म॒थ्यमा॑न॒ः सहो॑ म॒हत्त्वामा॑हु॒ः सह॑सस्पु॒त्रम॑ङ्गिरः ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । अङ्गि॑रसः । गुहा॑ । हि॒तम् । अनु॑ । अ॒वि॒न्द॒न् । शि॒श्रि॒या॒णम् । वने॑ऽवने ।
सः । जा॒य॒से॒ । म॒थ्यमा॑नः । सहः॑ । म॒हत् । त्वाम् । आ॒हुः॒ । सह॑सः । पु॒त्रम् । अ॒ङ्गि॒रः॒ ॥

सायणभाष्यम्

हेअग्ने अंगिरसऋषयः गुहा गुहायां हितं निहितं निगूढं वनेवने वृक्षेवृक्षे शिश्रियाणं आश्रितं त्वां अन्वविंदन् अलभन्त महत् महता सहः सहसा बलेनयुक्तः सत्वं मथ्यमानोजायसे हेअंगिरः अंगिरसांप्रकृतिभूत त्वांसहसस्पुत्रमाहुः ॥ शिश्रियाणं श्रिञ् सेवायां लिटःकानच् शपःश्लुः श्लावितिद्विर्वचनं इयङादेशः चित्त्वादन्तोदात्तः ॥ ६ ॥

प्राग्नयेबृहतइतिषळृचंद्वादशंसूक्तं सुतंभरस्यार्षंत्रैष्टुभमाग्नेयं प्राग्नायइत्यनुक्रान्तम् । प्रातरनुवाकेआग्नेयेक्रतौत्रै ष्टुभेछन्दसि आश्विन –शस्त्रेचेदंसूक्तं सूत्रितंच-प्राग्नयेबृहतेप्रवेधसेकवयइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः