मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १२, ऋक् १

संहिता

प्राग्नये॑ बृह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ ।
घृ॒तं न य॒ज्ञ आ॒स्ये॒३॒॑ सुपू॑तं॒ गिरं॑ भरे वृष॒भाय॑ प्रती॒चीम् ॥

पदपाठः

प्र । अ॒ग्नये॑ । बृ॒ह॒ते । य॒ज्ञिया॑य । ऋ॒तस्य॑ । वृष्णे॑ । असु॑राय । मन्म॑ ।
घृ॒तम् । न । य॒ज्ञे । आ॒स्ये॑ । सुऽपू॑तम् । गिर॑म् । भ॒रे॒ । वृ॒ष॒भाय॑ । प्र॒ती॒चीम् ॥

सायणभाष्यम्

बृहते सामर्थ्यातिशयेनमहते यज्ञियाय यज्ञार्हाय ऋतस्योदकस्य वृष्णेवर्षित्रे ऋतमित्युदकनामसुपाठात् असुरायबलवते असेरौणादिकउरन् प्रत्ययः वृषभाय कामानावर्षित्रे मन्म ज्ञानसाधनं प्रतीचीं अभिमुखींगिरं स्तुतिरूपांवाचं प्रभरे प्रणयामि कथमिव सुपूतं सम्यक्संस्कृतमास्येप्रहुतं यज्ञेघृतंन घृतमिव आस्येप्रहुतंघृतंयथाप्रीतिकरंभवति तथा प्रीतिकरींस्तुतिमित्यार्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः