मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १२, ऋक् २

संहिता

ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः ।
नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्ण॑ः ॥

पदपाठः

ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य॑ । धाराः॑ । अनु॑ । तृ॒न्धि॒ । पू॒र्वीः ।
न । अ॒हम् । या॒तुम् । सह॑सा । न । द्व॒येन॑ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ॥

सायणभाष्यम्

ऋतं स्तोत्रं हेचिकित्वः जानन् अग्ने त्वं ऋतं मयाक्रियमाणमिदंस्तोत्रंचिकिद्धि जानीहि कितज्ञाने जुहोत्यादिः लोटिरूपं इदितिपूरणः ऋतमितिपदस्य परस्मिन्नामंत्रितेविद्यमानेपिछांदसत्वात्परांगवद्भावाभावः किंच पूर्वीः बह्वीः ऋतस्योदकस्यधाराः तस्यपोषणार्थं उत्पादयितुं अनुतृन्धि मेघाननुविध्य पातय सहसाबलेनयुक्तोहं यातुं कर्मणांनाशकरीं हिंसां नसपामि नस्पृशामि नकरोमीतियावत् द्वयेनच सत्यानृताभ्यांयत्किंचिदवैदिकंकृत्यं नसपामि षपसमवायेइतिधातुः किंतु अरुषस्यारोचमानस्यवृष्णः कामानांवर्षितुः तव ऋतंस्तोत्रमेवसपामि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः